|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.214. अध्यायः 214
Mahabharata - Adi Parva - Chapter Topics
पञ्चे उपाख्यानप्रारम्भः॥ 1 ॥ नैमिशारण्ये देवैरारब्धे सत्रे यमस्य शामित्रकर्मणि व्यापृतत्वात् लोके प्रजाबाहुल्यं दृष्ट्वा तत्परिजिहीर्षया देवैर्ब्रह्मसमीपगमनम्॥ 2 ॥ ब्रह्माज्ञया पुनर्नैमिशारण्यं गतस्य गङ्गायां पुण्डरीकं दृष्ट्वा तज्जिहीर्षया गतस्य इन्द्रस्य तत्र रुदन्ताः स्त्रियाः दर्शनम्॥ 3 ॥ तामनुगच्छतेन्द्रेण पर्वतविवरे पूर्वेषां चतुर्णां इन्द्राणां दर्शनम्॥ 4 ॥ बलरामकेशवद्रौपद्यादीनामुत्पत्तिकथा॥ 5 ॥ व्यासदत्तदिव्यदृष्टेर्द्रुपदस्य पाण्डवद्रौपदीपूर्वरूपदर्शनं॥ 6 ॥ द्रौपद्या अव्यवहितपूर्वजन्मवृत्तान्तकथनम्॥ 7 ॥
Mahabharata - Adi Parva - Chapter Text
व्यास उवाच। 1-214-0x(1190)(9328)
पुरा वै नैमिशारण्ये देवाः सत्रमुपासते।
तत्र वैवस्वतो राजञ्शामित्रमकरोत्तदा॥ 1-214-1(9329)
ततो यमो दीक्षितस्तत्र राज-
न्नामारयत्कंचिदपि प्रजानाम्।
ततः प्रजास्ता बहुला बभूवुः
कालातिपातान्मरणप्रहीणाः॥ 1-214-2(9330)
सोमश्च शक्रो वरुणः कुबेरः
साध्या रुद्रा वसवोऽथाश्विनौ च।
प्रजापतिर्भुवनस्य प्रणेता
समाजग्मुस्तत्र देवास्तथाऽन्ये॥ 1-214-3(9331)
ततोऽब्रुवँल्लोकगुरुं समेता
भयात्तीव्रान्मानुषाणां विवृद्ध्या।
तस्माद्भयादुद्विजन्तः सुखेप्सवः
प्रयाम सर्वे शरणं भवन्तम्॥ 1-214-4(9332)
पितामह उवाच। 1-214-5x(1191)
किं वो भयं मानुषेभ्यो यूयं सर्वे यदाऽमराः।
मा वो मर्त्यसकाशाद्वै भयं भवितुमर्हति॥ 1-214-5(9333)
देवा ऊचुः। 1-214-6x(1192)
मर्त्या अमर्त्याः संवृत्ता न विशेषोऽस्ति कश्चन।
अविशेषादुद्विजन्तो विशेषार्थमिहागताः॥ 1-214-6(9334)
श्रीभगवानुवाच। 1-214-7x(1193)
वैवस्वतो व्यापृतः सत्रहेतो-
स्तेन त्विमे न म्रियन्ते मनुष्याः।
तस्मिन्नेकाग्रे कृतसर्वकार्ये
तत एषां भवितैवान्तकालः॥ 1-214-7(9335)
वैवस्वतस्यैव तनुर्विभक्ता
वीर्येण युष्माकमुत प्रवृद्धा।
सैषामन्तो भविता ह्यन्तकाले
न तत्र वीर्यं भविता नरेषु॥ 1-214-8(9336)
व्यास उवाच। 1-214-9x(1194)
ततस्तु ते पूर्वजदेववाक्यं
श्रुत्वा जग्मुर्यत्र देवा यजन्ते।
समासीनास्ते समेता महाबला
भागीरथ्यां ददृशुः पुण्डरीकम्॥ 1-214-9(9337)
दृष्ट्वा च तद्विस्मितास्ते बभूवु-
स्तेषामिन्द्रस्तत्र शूरो जगाम।
सोऽपश्यद्योषामथ पावकप्रभां
यत्र देवी गङ्गा सततं प्रसूता॥ 1-214-10(9338)
सा तत्र योषा रुदती जलार्थिनी
गङ्गां देवीं व्यवगाह्य व्यतिष्ठत्।
तस्याश्रुबिन्दुः पतितो जले य-
स्तत्पद्ममासीदथ तत्र काञ्चनम्॥ 1-214-11(9339)
तदद्भुतं प्रेक्ष्य वज्री तदानी-
मपृच्छत्तां योषितमन्तिकाद्वै।
का त्वं भद्रे रोदिषि कस्य हेतो-
र्वाक्यं तथ्यं कामयेऽहं ब्रवीहि॥ 1-214-12(9340)
स्त्र्युवाच। 1-214-13x(1195)
त्वं वेत्स्यसे मामिह याऽस्मि शक्र
यदर्थं चाहं रोदिमि मन्दभाग्या।
आगच्छ राजन्पुरतो गमिष्ये
द्रष्टाऽसि तद्रोदिमि यत्कृतेऽहम्॥ 1-214-13(9341)
व्यास उवाच। 1-214-14x(1196)
तां गच्छन्तीमन्वगच्छत्तदानीं
सोऽपश्यदारात्तरुणं दर्शनीयम्।
सिद्धासनस्थं युवतीसहायं
क्रीडन्तमक्षैर्गिरिराजमूर्ध्नि॥ 1-214-14(9342)
तमब्रवीद्देवराजो ममेदं
त्वं विद्धि विद्वन्भुवनं वशे स्थितम्।
ईशोऽहस्मीति समन्युरब्रवी-
द्दृष्ट्वा तमक्षैः सुभृशं प्रमत्तम्॥ 1-214-15(9343)
क्रुद्धं च शक्रं प्रसमीक्ष्य देवो
जहाय शक्रं च शैरुदैक्षत।
संस्तम्भितोऽभूदथ देवराज-
स्तेनेक्षितः स्थाणुरिवावतस्थे॥ 1-214-16(9344)
यदा तु पर्याप्तमिहास्य क्रीडया
तदा देवीं रुदतीं तामुवाच।
आनीयतामेष यतोऽहमारा-
न्नैनं दर्पः पुनरप्याविशेत॥ 1-214-17(9345)
ततः शक्रः स्पृष्टमात्रस्तया तु
स्रस्तैरङ्गैः पतितोऽभूद्धरण्याम्।
तमब्रवीद्भगवानुग्रतेजा
मैवं पुनः शक्र कृथाः कथंचित्॥ 1-214-18(9346)
निवर्तयैनं च महाद्रिराजं
बलं च वीर्यं च तवाप्रमेयम्।
छिद्रस्य चैवाविश मध्यमस्य
यत्रासते त्वद्विधाः सूर्यभासः॥ 1-214-19(9347)
स तद्विवृत्य विवरं महागिरे-
स्तुल्यद्युतींश्चतुरोऽन्यान्ददर्श।
स तानभिप्रेक्ष्य बभूव दुःखितः
कच्चिन्नाहं भविता वै यथेमे॥ 1-214-20(9348)
ततो देवो गिरिशो वज्रपाणिं
विवृत्य नेत्रे कुपितोऽभ्युवाच।
दरीमेतां प्रविश त्वं शतक्रतो
यन्मां बाल्यादवमंस्थाः पुरस्तात्॥ 1-214-21(9349)
उक्तस्त्वेवं विभुना देवराजः
प्रावेपताऽऽर्तो भृशमेवाभिषङ्गात्।
स्रस्तैरङ्गैरनिलेनेव नुन्न-
मश्वत्थपत्रं गिरिराजमूर्ध्नि॥ 1-214-22(9350)
स प्राञ्जलिर्वै वृषवाहनेन
प्रवेपमानः सहसैवमुक्तः।
उवाच देवं बहुरूपमुग्र-
मद्याशेषस्य भुवनस्य त्वं भवाद्यः॥ 1-214-23(9351)
तमब्रवीदुग्रवर्चाः प्रहस्य
नैवंशीलाः शेषमिहाप्नुवन्ति।
एतेऽप्येवं भवितारः पुरस्ता-
त्तस्मादेतां दरीमाविश्य शेष्य॥ 1-214-24(9352)
एषा भार्या भविता वो न संशयो
योनिं सर्वे मानुषीमाविशध्वम्।
तत्र यूयं कर्म कृत्वाऽविषह्यं
बहूनन्यान्निधनं प्रापयित्वा॥ 1-214-25(9353)
`अस्त्रैर्दिव्यैर्मानुषान्योधयित्वा
शूरान्सर्वानाहवे संविजित्य।'
आगन्तारः पुनरेवेन्द्रवलोकं
स्वकर्मणा पूर्वचितं महार्हम्।
सर्वं मया भाषितमेतदेवं
कर्तव्यमन्यद्विविधार्थयुक्तम्॥ 1-214-26(9354)
पूर्वेन्द्रा ऊचुः। 1-214-27x(1197)
गमिष्यामो मानुषं देवलोका-
द्दुराधरो विहितो यत्र मोक्षः।
देवास्त्वस्मानादधीरञ्जनन्यां
धर्मो वायुर्मघवानश्विनौ च॥ 1-214-27(9355)
व्यास उवाच। 1-214-28x(1198)
एतच्छ्रुत्वा वज्रपाणिर्वचस्तु
देवश्रेष्ठं पुनरेवेदमाह।
वीर्येणाहं पुरुषं कार्यहेतो-
र्दद्यामेषां पञ्चमं मत्प्रसूतम्॥ 1-214-28(9356)
विश्वभुग्भूतधामा च शिबिरिन्द्रः प्रतापवान्।
शान्तिश्चतुर्थस्तेषां वै तेजस्वी पञ्चमः स्मृतः॥ 1-214-29(9357)
तेषां कामं भगवानुग्रधन्वा
प्रादादिष्टं सन्निसर्गाद्यथोक्तम्।
तां चाप्येषां योषितं लोककान्तां
श्रियं भार्यां व्यदधान्मानुषेषु॥ 1-214-30(9358)
तैरेव सार्धं तु ततः स देवो
जगाम नारायणमप्रमेयम्।
अनन्तमव्यक्तमजं पुराणं
सनातनं विश्वमनन्तरूपम्॥ 1-214-31(9359)
स चापि तद्व्यदधात्सर्वमेव
ततः सर्वे संबभूवुर्धरण्यमाम्।
`नरं तु देवं विबुधप्रधान-
मिन्द्राज्जिष्णुं पञ्चमं कल्पयित्वा।'
स चापि केशौ हरिरुद्बबर्ह
शुक्लमेकमपरं चापि कृष्णम्॥ 1-214-32(9360)
तौ चापि केशौ विशतां यदूनां
कुले स्त्रियौ देवकीं रोहिणीं च।
तयोरेको बलदेवो बभूव
योऽसौ श्वेतस्य देवस्य केशः।
कृष्णो द्वितीयः केशवः संबभूव
केशो योऽसौ वर्णतः कृष्ण उक्तः॥ 1-214-33(9361)
ये ते पूर्वं शक्ररूपा निबद्धा-
स्तस्यां दर्यां पर्वतस्योत्तरस्य।
इहैव ते पाण्डवा वीर्यवन्तः
शक्रस्यांशः पाण्डवः सव्यसाची॥ 1-214-34(9362)
एवमेते पाण्डवाः संबभूवु-
र्ये ते राजन्पूर्वमिन्द्रा बभूवुः।
लक्ष्मीश्चैषां पूर्वमेवोपदिष्टा
भार्या यैषा द्रौपदी दिव्यरूपा॥ 1-214-35(9363)
कथं हि स्त्री कर्मणा ते महीतला-
त्समुत्तिष्ठेदन्यतो दैवयोगात्।
यस्या रूपं सोमसूर्यप्रकाशं
गन्धश्चास्याः कोशमात्रात्प्रवाति॥ 1-214-36(9364)
इदं चान्यत्प्रीतिपूर्वं नरेन्द्र
ददानि ते वरमत्यद्भुतं च।
दिव्यं चक्षुः पश्य कुन्तीसुतांस्त्वं
पुण्यैर्दिव्यैः पूर्वदेहैरुपेतान्॥ 1-214-37(9365)
वैशम्पायन उवाच। 1-214-38x(1199)
ततो व्यासः परमोदारकर्मा
शुचिर्विप्रस्तपसा तस्य राज्ञः।
चक्षुर्दिव्यं प्रददौ तांश्च सर्वान्
राजाऽपश्यत्पूर्वदेहैर्यथावत्॥ 1-214-38(9366)
ततो दिव्यान्हेमकिरीटमालिनः
शक्रप्रख्यान्पावकादित्यवर्णान्।
बद्धापीडांश्चारुरूपांश्च यूनो
व्यूढोरस्कांस्तालमात्रान्ददर्श॥ 1-214-39(9367)
दिव्यैर्वस्त्रैरजोभिः सुगन्धै-
र्माल्यैश्चाग्र्यैः शोभमानानतीव।
साक्षात्त्र्यक्षान्वा वसूंश्चापि रुद्रा-
नादित्यान्वा सर्वगुणोपपन्नान्॥ 1-214-40(9368)
तान्पूर्वेन्द्रानभिवीक्ष्याभिरूपा-
त्र्शक्रात्मजं चेन्द्ररूपं निशम्य।
प्रीतो राजा द्रुपदो विस्मितश्च
दिव्यां मायां तामवेक्ष्याप्रमेयाम्॥ 1-214-41(9369)
तां चैवाग्र्यां स्त्रियमतिरूपयुक्तां
दिव्यां साक्षात्सोमवह्निप्रकाशाम्।
योग्यां तेषां रूपतेजोयशोभिः
पत्नी मत्वा हृष्टवान्पार्थिवेन्द्रः॥ 1-214-42(9370)
स तद्दृष्ट्वा महदाश्चर्यरूपं
जग्राह पादौ सत्यवत्याः सुतस्य।
नैतच्चित्रं परमर्षे त्वयीति
प्रसन्नचेताः स उवाच चैनम्॥ 1-214-43(9371)
`व्यास उवाच। 1-214-44x(1200)
इदं चापि पुरावृत्तं तन्निबोध च भूमिम।
कीर्त्यमानं नृपर्षीणां पूर्वेषां दारकर्मणि॥ 1-214-44(9372)
नितन्तुर्नाम राजर्षिर्बभूव भुवि विश्रुतः।
तस्य पुत्रा महेष्वासा बभूवुः पञ्च भूमिताः॥ 1-214-45(9373)
साल्वेयः शूरसेनश्च श्रुतसेनश्च वीर्यवान्।
तिन्दुसारोऽतिसारश्च क्षत्रियाः क्रतुयाजिनः॥ 1-214-46(9374)
नातिचक्रमुरन्योन्यमन्योन्यस्य प्रियंवदाः।
अनीर्ष्यवो धर्मविदः सौम्याश्चैव प्रियकराः॥ 1-214-47(9375)
एतान्नैतन्तवान्पञ्च शिबिपुत्री स्वयंवरे।
अवाप स्वपतीन्वीरान्भौमाश्वी मनुजाधिपान्॥ 1-214-48(9376)
वीणेव मधुरारावा गान्धर्वस्वरमूर्च्छिता।
उत्तमा सर्वनारीणां भौमाश्वी ह्यभवत्तदा॥ 1-214-49(9377)
यस्या नैतन्तवाः पञ्च पतयः क्षत्रियर्षभाः।
बभूवुः पृथिवीपालाः सर्वैः समुदिता गुणैः॥ 1-214-50(9378)
तेषामेकाभवद्भार्या राज्ञामौशीनरी शुभा।
भौमाश्वी नाम भद्रं ते तथारूपगुणान्विता॥ 1-214-51(9379)
पञ्चभ्यः पञ्चधा पञ्च दायादान्सा व्यजायत।
तेभ्यो नैतन्तवेभ्यस्तु राजशार्दूल वै तदा॥ 1-214-52(9380)
पृथगाख्याऽभवत्तेषां भ्रातॄणां पञ्चधा भुवि।
यथावत्कीर्त्यमानांस्ताञ्छृणु मे राजसत्तम॥ 1-214-53(9381)
साल्वेयाः शूरसेनाश्च श्रुतसेनाश्च पार्थिवाः।
तिन्दुसारातिसाराश्च वंशा एषां नृपोत्तम॥ 1-214-54(9382)
एवमेकाऽभवद्भार्या भौमाश्वी भुवि विश्रुता।
तथैव द्रुपदैषा ते सुता वै देवरूपिणी।
पञ्चानां विहिता पत्नी कृष्णा पार्षत्यनिन्दिता'॥ 1-214-55(9383)
व्यास उवाच। 1-214-56x(1201)
आसीत्तपोवंने काचिदृषेः कन्या महात्मनः।
नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती॥ 1-214-56(9384)
तोषयामास तपसा सा किलोग्रेण शङ्करम्।
तामुवाचेश्वरः प्रीतो वृणु काममिति स्वयम्॥ 1-214-57(9385)
सैवमुक्ताऽब्रवीत्कन्या देवं वरदमीश्वरम्।
पतिं सर्वगुणोपेतमिच्छामीति पुनःपुनः॥ 1-214-58(9386)
ददौ तस्यै स देवेशस्तं वरं प्रीतमानसः।
पञ्च ते पतयो भद्रे भविष्यन्तीति शङ्करः॥ 1-214-59(9387)
सा प्रसादयती देवमिदं भूयोऽभ्यभाषत।
एकं पतिं गुणोपेतं त्वत्तोऽर्हामीति शङ्कर॥ 1-214-60(9388)
तां देवदेवः प्रीतात्मा पुनः प्राह शुभं वचः।
पञ्चकृत्वस्त्वयोक्तोऽहं पतिं देहीति वै पुनः॥ 1-214-61(9389)
तत्तथा भविता भद्रे वचस्तद्भद्रमस्तु ते।
देहमन्यं गतायास्ते सर्वमेतद्भविष्यति॥ 1-214-62(9390)
द्रुपदैषा हि सा जज्ञे सुता वै देवरूपिणी।
पञ्चानां विहिता पत्नी कृष्णा पार्षत्यनिन्दिता॥ 1-214-63(9391)
`सैव नालायनी भूत्वा रूपेणाप्रतिमा भुवि।
मौद्गल्यं पतिमास्थाय शिवाद्वरमभीप्सती॥ 1-214-64(9392)
एतद्देवरहस्यं ते श्रावितं राजसत्तम।
नाख्यातव्यं कस्यचिद्वै देवगुह्यमिदं यतः॥' 1-214-65(9393)
स्वर्गश्रीः पाण्डवार्थं तु समुत्पन्ना महामखे।
सेह तप्त्वा तपो घोरं दुहितृत्वं तवागता॥ 1-214-66(9394)
सैषा देवी रुचिरा देवजुष्टा
पञ्चानामेका स्वकृतेनेह कर्मणा।
सृष्टा स्वयं देवपत्नी स्वयंभुवा
श्रुत्वा राजन्द्रुपदेष्टं कुरुष्व॥ ॥ 1-214-67(9395)
इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि चतुर्दशाधिकद्विशततमोऽध्यायः॥ 214 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-214-1 शमिता यज्ञे पशुवधकर्ता तस्य भावः शामित्रम्॥ 1-214-3 यत्र प्रजापतिस्तत्र सोमादयः समाजग्मुः॥ 1-214-11 तस्याः अश्रुबिन्दुः। सन्धिरार्षः॥ 1-214-21 ततः शीघ्रमप्रवेशाद्धेतोः॥ 1-214-23 हे भव अद्य त्वमशेषस्य भुवनस्य आद्यः पतिरसि। अद्येत्यनेन मां जित्वैव नत्वन्यथेति सूचितम्॥ 1-214-24 शेषं प्रसादम्॥ 1-214-27 दुराधरो दुष्प्रापः॥ 1-214-28 वीर्येण शुक्रद्वारा पुरुषमंशभूतं दद्याम्॥ 1-214-29 तेजस्वी इन्द्रांशः॥ 1-214-31 तैर्विश्वभुगादिभिः। स देवो महादेवः॥ 1-214-32 व्यदधाद्विहितवान् आज्ञप्तवानित्यर्थः। उद्बबर्ह उद्धृतवान्॥ 1-214-38 तस्य राज्ञः। तस्मै राज्ञे॥ चतुर्दशाधिकद्विशततमोऽध्यायः॥ 214 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|